सोमवार, 3 जुलाई 2023

मंगला गौरी स्तोत्रं

 मंगला गौरी स्तोत्रं


रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके।

हारिके विपदार्राशे हर्षमंगल कारिके ।।

हर्षमंगल दक्षे च हर्षमंगल दायिके ।

शुभेमंगल दक्षे च शुभेमंगल चंडिके।।

मंगले मंगलार्हे च सर्वमंगल मंगले ।

सता मंगल दे देवि सर्वेषां मंगलालये ||

पूज्ये मंगलवारे च मंगलाभिष्ट देवते।

पूज्ये मंगल भूपस्य मनुवंशस्य संततम्।।

मंगला धिस्ठात देवि मंगलाञ्च मंगले |

संसार मंगलाधारे पारे च सर्वकर्मणाम्।।

देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः ।

प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे ।।

तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम्।

वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने - दिने ।।

मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले ।

।। इति मंगलागौरी स्तोत्रं सम्पूर्ण ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें