रविवार, 2 जुलाई 2023

श्रीरुद्रद्वादशनामस्तोत्रं

 श्रीरुद्रद्वादशनामस्तोत्रं 


प्रथमं तु महादेवं द्वितीयं तु महेश्वरम् । 

तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् ॥ १॥


 पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनम् ।

 सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा ॥ २॥


 नवमं तु हरं देवं दशमं पार्वतीपतिम् ।

 रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते ॥ ३॥


फलश्रुति

एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।

 गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ॥ ४॥

 स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः ।

सर्वं नाशयते पापं शिवलोकं स गच्छति ॥ ५॥

 शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरम् ।

 इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् ॥ ६॥ 


॥ इति श्रीरुद्रद्वादशनामस्तोत्रं सम्पूर्णम्॥


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें